|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.149. अध्यायः 149
Mahabharata - Vana Parva - Chapter Topics
भीमेन स्वमार्गादपसरणं चोदितेन हनुमता तंप्रति अपसरणे स्वस्याशक्तिकथनपूर्वकं स्वबालोद्धरणेन गमनचोदना ॥ 1 ॥ प्रयतनेऽपि पुच्छचालनेऽप्यसमर्थेन भीमेन तंप्रति तत्प्रभवादिप्रश्नः ॥ 2 ॥ हनुमता स्वप्रभवादिकथनपूर्वकं रामकथकथनारम्भः ॥ 3 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-149-0x(2262)(21589)
एतच्छ्रुत्वा वचस्तस्य वानरेन्द्रस्य धीमतः।
भीमसेनस्तदा वीरः प्रोवाचामितविक्रमः ॥ 3-149-1(21590)
भीम उवाच। 3-149-2x(2263)
को भवान्किंनिमित्तं वा वानरं वपुराश्रितः।
ब्राह्मणानन्तरो वर्णः क्षत्रियस्त्वाऽनुपृच्छति ॥ 3-149-2(21591)
कौरवः सोमवंशीयः कुन्त्या गर्भेण धारितः।
पाण्डवो वायुतनयो भीमसेन इति श्रुतः ॥ 3-149-3(21592)
स वाक्यं भीमसेनस्य स्मितेन प्रतिगृह्य तत्।
हनुमान्वायुतनयो वायुपुत्रमभाषत ॥ 3-149-4(21593)
वानरोऽहं न ते मार्गं प्रदास्यामि यथोप्सितम्।
साधु गच्छ निवर्तस्व मा त्वं प्राप्स्यसि वैशसम् ॥ 3-149-5(21594)
भीमसेन उवाच। 3-149-6x(2264)
वैशसं वाऽस्तु यद्वान्यन्न त्वां रपृच्चामि वानर।
प्रयच्छ मार्गमुत्तिष्ठ मा मत्तः प्राप्स्यसे व्यथाम् ॥ 3-149-6(21595)
हनूमानुवाच। 3-149-7x(2265)
नास्ति शक्तिर्ममोत्थातुं जरया क्लेशितो ह्यहम्।
यद्यवश्यं प्रयातव्यं लङ्घयित्वा प्रयाहि माम् ॥ 3-149-7(21596)
भीम उवाच। 3-149-8x(2266)
निर्गुणः परमात्मा तु देहं ते व्याप्य तिष्ठते।
तमहं ज्ञानविज्ञेयं नावमन्ये न लङ्घये ॥ 3-149-8(21597)
यद्यागमैर्न विद्यां च तमहं भूतभावनम्।
क्रमेयं त्वां गिरिं चैव हनीमानिव सागरम् ॥ 3-149-9(21598)
हनूमानुवाच। 3-149-10x(2267)
क एष हनुमान्नाम सागरो येन लङ्घितः।
पृच्चामि त्वां नरश्रेष्ठ कथ्यतां यदि शक्यते ॥ 3-149-10(21599)
भीम उवाच। 3-149-11x(2268)
भ्राता मम गुणश्लाघ्यो बुद्धिसत्वबलान्वितः।
रामायणेऽतिविख्यातः श्रीमान्वानरपुङ्गवः ॥ 3-149-11(21600)
रामपत्नीकृते येन शतयोजनविस्तृतः।
सागरः प्लवगेन्द्रेण क्रमेणैकेन लङ्घितः ॥ 3-149-12(21601)
स मे भ्राता महावीर्यस्तुल्योऽहं तस् तेजसा।
बले पराक्रमे युद्धे शक्तोऽहं तव निग्रहे ॥ 3-149-13(21602)
`इमं देशमनुप्राप्तः कारणेनास्मि केनचित्।'
उत्तिष्ठ देहि मे मार्गं पश्य मे चाद्य पौरुषम्।
मच्छासनमकुर्वाणं त्वां वा नेष्ये यमक्षयम् ॥ 3-149-14(21603)
वैशम्पायन उवाच 3-149-15x(2269)
विज्ञाय तं बलोन्मत्तं बाहुवीर्येण दर्पितम्।
हृदयेनावहस्यैनं हनूमान्वाक्यमब्रवीत् ॥ 3-149-15(21604)
प्रसीद नास्ति मे शक्तिरुत्थातुं जरयाऽनघ।
ममानुकम्पया त्वेतत्पुच्छमुत्सार्य गम्यताम् ॥ 3-149-16(21605)
वैशम्पायन उवाच। 3-149-17x(2270)
[एवमुक्ते हनुमता हीनवीर्यपराक्रमम्।
मनसाऽचिनतयद्भीमः स्वबाहुबलदर्पितः ॥ 3-149-17(21606)
पुच्छे प्रगृह्य तरसा हीनवीर्यपराक्रमम्।
सालोक्यमन्तकस्यैनं नयाम्यद्येह वानरम् ॥] 3-149-18(21607)
सावज्ञमथ वामेन स्मयञ्जग्राह पाणिना।
न चाशकच्चालयितुं भीमः पुच्छं महाकपेः ॥ 3-149-19(21608)
उच्चिक्षेप पुनर्दोर्भ्यामिन्द्रायुधमिवोच्छ्रितम्।
नोद्धर्तुमशकद्भीमो दोर्भ्यामपि महाबलः ॥ 3-149-20(21609)
उत्क्षिप्तभ्रूर्विवृत्ताक्षः संहतभ्रकुटीमुखः।
स्विन्नगात्रोऽभवद्भीमो न चोद्धर्तुंशशाक तम् ॥ 3-149-21(21610)
यत्नवानपि तु श्रीमाँल्लाङ्गूलोद्धरणे ततः।
कपेः पार्श्वगतो भीमस्तस्थौ व्रीडडानताननः ॥ 3-149-22(21611)
प्रणिपत्य च कौन्तेयः प्राञ्जलिर्वाक्यमब्रवीत्।
प्रसीद कपिशार्दूल दुरुक्तं क्षम्यतां मम ॥ 3-149-23(21612)
सिद्धो वा यदि वा देवो गन्धर्वो वाऽथ गुह्यकः।
पृष्टः सन्को मया ब्रूहि कस्त्वं वानररूपधृत् ॥ 3-149-24(21613)
न चेद्गुह्यं महाबाहो श्रोतव्यं चेद्भवेन्मम।
शिष्यवत्त्वां तु पृच्छामि उपपन्नोऽस्मि तेऽनघ ॥ 3-149-25(21614)
हनूमानुवाच। 3-149-26x(2271)
यत्ते मम परिज्ञाने कौतूहलमरिंदम।
तत्सर्वमखिलेन त्वं शृणु पाण्डवनन्दन ॥ 3-149-26(21615)
अहं केसरिणः क्षेत्रे वायुना जगदायुषा।
जातः कमलपत्राक्ष हनूमान्नाम वानरः ॥ 3-149-27(21616)
सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम्।
सर्ववानरराजानौ सर्ववानरयूथपाः ॥ 3-149-28(21617)
उपतस्थुर्महावीर्या मम चामित्रकर्शन।
सुग्रीवेणाभवत्प्रीतिरनिलस्याग्निना यथा ॥ 3-149-29(21618)
निकृतः स ततो भ्रात्रा कस्मिंश्चित्कारणान्तरे।
ऋश्यमूके मया सार्धं सुग्रीवो न्यवसच्चिरम् ॥ 3-149-30(21619)
अथ दाशरथिर्वीरो रामो नाम महाबलः।
विष्णुर्मानुषरूपेण चचार वसुधातलम् ॥ 3-149-31(21620)
स पितुः प्रियमन्विच्छन्सहभार्यः सहानुजः।
सधनुर्धन्विनांश्रेष्ठो दण्डकारण्यमाश्रितः ॥ 3-149-32(21621)
तस्य भार्या जनस्थानाच्छलेनापहृता बलात्।
राक्षसेन्द्रेण बलिना रावणेन दुरात्मना ॥ 3-149-33(21622)
सुवर्णरत्नचित्रेण मृगरूपेण रक्षसा।
वञ्चयित्वा नरव्याघ्रं मारीचेन तदाऽनघ ॥ 3-149-34(21623)
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि एकोनपञ्चाशदधिकशततमोऽध्यायः ॥ 149 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-149-5 वैशसं विरोधम् ॥ 3-149-9 भूतभावनं भूतानां वियदादीनां जरायुजादीनां च भावनं रचनं यस्मात्तम् ॥ 3-149-12 क्रमेण पादविक्षेपेन ॥ 3-149-17 एवमुक्ते सति। तमित्यध्याहारः। तं हीनवीर्यपराक्रमं मनसाऽविन्तयन्मेने ॥ 3-149-29 मम च सुग्रीवेण प्रीतिरभवत् ॥ 3-149-30 निकृतः निरस्तः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|